वांछित मन्त्र चुनें

आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥

अंग्रेज़ी लिप्यंतरण

āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi | yakṣmam matasnābhyāṁ yaknaḥ plāśibhyo vi vṛhāmi te ||

पद पाठ

आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ । यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥ १०.१६३.३

ऋग्वेद » मण्डल:10» सूक्त:163» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:21» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) तेरे (आन्त्रेभ्यः) आँतों से (गुदाभ्यः) मलस्थानों से (वनिष्ठोः) स्थूल आँत से (हृदयात्-अधि) हृदय के अन्दर से (मतस्नाभ्याम्) दोनों गुर्दों से (यक्नः) यकृत् से-जिगर से (प्लाशिभ्यः) प्लीह स्थानों से-तिल्ली के भागों से (यक्ष्मं वि वृहामि) रोग को पृथक् करता हूँ ॥३॥
भावार्थभाषाः - रोगी के आँतों, गुदा, मूल आँत, हृदय, गुर्दों, यकृत्, प्लीहा में होनेवाले रोग को दूर करना चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) तव (आन्त्रेभ्यः) पाचनस्थानेभ्यः (गुदाभ्यः) गुदस्थानेभ्यो मलस्थानेभ्यः (वनिष्ठोः) स्थूलान्त्रात् (हृदयात्-अधि) हृदयान्तर्गतात् (मतस्नाभ्याम्) वृक्काभ्याम् (यक्नः) यकृतः (प्लाशिभ्यः) प्लीहस्थानेभ्यः (यक्ष्मं विवृहामि) रोगं पृथक् करोमि ॥३॥